social media accounts
दिनांक
खोजें
भोपाल : शनिवार, जून 16, 2018, 20:44 IST

मुख्यमंत्री श्री चौहान: ईदगाह स्थलं गत्वा ईद पर्वस्य शुभकामना: दत्तवान्

ईद मिलनं समारोहे मुख्यमंत्री सम्मेलित: अभवत्

 

मुख्यमंत्री श्री शिवराज सिंह चौहान: ईद पर्वस्य शुभकामना अवसरे अद्य प्रात: ईदगाह हिल्स स्थितम् ईदगाह स्थलं गतवान् च मुस्लिम बान्धवान् ईद पर्वस्य हृदयेन शुभकामना दत्तवान्। श्री चौहान: नमाजी जनेषु रक्तपुष्पै: पुष्पवर्षां कृतवान्, बालान् स्नेहं अनुरागं च दत्तवान्। बालका: अपि मुख्यमंत्रिणं शुभकामना पत्राणि दत्तवन्त:।

श्री चौहान: ईद पर्वस्य अवसरे नागरिकान् शुभकामना: ददन् अवदत् यत् एष: बन्धुताया: स्नेहस्य च उत्सव: अस्ति। स: उक्तवान् यत् सर्वेषाम् उपरि ईश्वरस्य कृपा भवेत्। सर्वेषां दु:खानि कष्टानि दूरी भवेयु: सर्वे आनन्देन स्नेहेण जीवेयु:। मानवता अनवरत् अग्रे वर्धयेत् । सर्वे मिलित्वा एनं विश्वम् इतोपि शोभनं कुर्यु:।

मुख्यमंत्री अस्मिन् शुभकामना अवसरे देशे, प्रदेशे, विश्वे च शांति: सुखस्य कामनां कृतवान्। स: उक्तवान् यत् प्रदेशे एकता, बन्धुता, स्नेहं च भवेत्। सर्वेषां कल्याणं भवेत्, सर्वे सुखिन: निरोगा: च भवेयु:। सर्वे उन्नतिं कुर्यु: च सर्वेषां जीवने समृद्धि: आगच्छेत्।

अस्मिन् अवसरे सांसद: श्री आलोक संजर:, महापौर: श्री आलोक शर्मा, मध्यप्रदेशं वक्फ बोर्ड अध्यक्ष: श्री शौकत मोहम्मद खान:, पूर्वं केन्द्रीयं मंत्री श्री कमलनाथ: च श्री सुरेश पचौरी अन्या: जन प्रतिनिधय: च वरिष्ठा: अधिकारिण: उपस्थिता: आसन्।

-